𑒬𑓂𑒩𑒲 𑒧𑒰𑒩𑓂𑒏𑓂𑒏𑒝𑓂𑒛𑒹𑒨 𑒣𑒳𑒩𑒰𑒝𑒹 𑒮𑒰𑒫𑒩𑓂𑒝𑓂𑒝𑒱𑒏𑒹 𑒧𑒢𑓂𑒫𑒢𑓂𑒞𑒩𑒹 𑒠𑒹𑒫𑒲𑒧𑒰𑒯𑒰𑒞𑓂𑒧𑓂𑒨𑒹 𑒧𑒯𑒱𑒭𑒰𑒮𑒳𑒩𑒥𑒡𑓁 ॥𑓓॥ – श्री मार्क्कण्डेय पुराणे सावर्ण्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरबधः

𑒇𑒭𑒱𑒩𑒳𑒫𑒰𑒔 ॥𑓑॥
ऋषिरुवाच ॥१॥

𑒢𑒱𑒯𑒢𑓂𑒨𑒧𑒰𑒢𑒢𑓂𑒞𑒞𑓂𑒮𑒻𑒢𑓂𑒨𑒧𑒫𑒪𑒼𑒏𑓂𑒨 𑒧𑒯𑒰𑒮𑒳𑒩𑓁 ।
𑒮𑒹𑒢𑒰𑒢𑒲𑒬𑓂𑒔𑒱𑒏𑓂𑒭𑒳𑒩𑓁 𑒏𑒼𑒣𑒰𑒠𑓂𑒨𑒨𑒾 𑒨𑒼𑒠𑓂𑒡𑒳 𑒧𑒟𑒰𑒧𑓂𑒥𑒱𑒏𑒰𑒧𑓂 ॥ 𑓒॥
निहन्यमानन्तत्सैन्यमवलोक्य महासुरः ।
सेनानीश्चिक्षुरः कोपाद्ययौ योद्धु मथाम्बिकाम् ॥ २॥

𑒮 𑒠𑒹𑒫𑒲𑓀 𑒬𑒩𑒫𑒩𑓂𑒭𑒹𑒝 𑒫𑒫𑒩𑓂𑒭 𑒮𑒧𑒩𑒹𑓄𑒮𑒳𑒩𑓁 ।
𑒨𑒟𑒰 𑒧𑒹𑒩𑒳𑒑𑒱𑒩𑒹𑓁 𑒬𑒵𑒓𑓂𑒑𑒢𑓂𑒞𑒼𑒨𑒫𑒩𑓂𑒭𑒹𑒝 𑒞𑒼𑒨𑒠𑓁 ॥ 𑓓 ॥
स देवीं शरवर्षेण ववर्ष समरेऽसुरः ।
यथा मेरुगिरेः शृङ्गन्तोयवर्षेण तोयदः ॥ ३ ॥

𑒞𑒮𑓂𑒨 𑒔𑓂𑒕𑒱𑒞𑓂𑒫𑒰 𑒞𑒞𑒼 𑒠𑒹𑒫𑒲 𑒪𑒲𑒪𑒨𑒻𑒫 𑒬𑒩𑒼𑒞𑓂𑒏𑒩𑒰𑒢𑓂 ।
𑒖𑒒𑒰𑒢 𑒞𑒳𑒩𑒑𑒰𑒢𑓂𑒥𑒰𑒝𑒻𑒩𑓂𑒨𑓂𑒨𑒢𑓂𑒞𑒰𑒩𑓀 𑒔𑒻𑒫 𑒫𑒰𑒖𑒱𑒢𑒰𑒧𑓂 ॥ 𑓔॥
तस्य च्छित्वा ततो देवी लीलयैव शरोत्करान् ।
जघान तुरगान्बाणैर्य्यन्तारं चैव वाजिनाम् ॥ ४॥

𑒔𑒱𑒔𑓂𑒕𑒹𑒠 𑒔 𑒡𑒢𑒳 𑒮𑒠𑓂𑒨𑒼 𑒡𑓂𑒫𑒖𑓀 𑒔𑒰𑒞𑒱𑒮𑒧𑒳𑒔𑓂𑒕𑓂𑒩𑒱𑒞𑒧𑓂 ।
𑒫𑒱𑒫𑓂𑒨𑒰𑒡 𑒔𑒻𑒫 𑒑𑒰𑒞𑓂𑒩𑒹𑒭𑒳 𑒔𑓂𑒡𑒱𑒞𑓂𑒩𑒡𑒢𑓂𑒫𑒰𑒢𑒧𑒰𑒮𑒳𑒑𑒻𑓁 ||𑓕||
चिच्छेद च धनु सद्यो ध्वजं चातिसमुच्छ्रितम् ।
विव्याध चैव गात्रेषु च्धित्रधन्वानमासुगैः ||५||

𑒮𑒔𑓂𑒕𑒱𑒢𑓂𑒢𑒡𑒢𑓂𑒫𑒰 𑒫𑒱𑒩𑒟𑒼 𑒯𑒞𑒰𑒬𑓂𑒫𑒼𑒯𑒞- 𑒮𑒰𑒩𑒟𑒱𑓁 ।
𑒁𑒦𑓂𑒨𑒡𑒰𑒫𑒞 𑒞𑒰𑒢𑓂𑒠𑒹𑒫𑒲𑓀 𑒐𑒛𑓂𑒑𑒔𑒩𑓂𑒧𑓂𑒧𑒡𑒩𑒼𑓄𑒮𑒳𑒩𑓁 ॥ 𑓖॥ |
सच्छिन्नधन्वा विरथो हताश्वोहत- सारथिः ।
अभ्यधावत तान्देवीं खड्गचर्म्मधरोऽसुरः ॥ ६॥ |

𑒮𑒱𑓀𑒯𑒧𑒰𑒯𑒞𑓂𑒨 𑒐𑒛𑓂𑒑𑒹𑒢 𑒞𑒲𑒏𑓂𑒭𑓂𑒝𑒡𑒰𑒩𑒹𑒝 𑒧𑒴𑒩𑓂𑒠𑓂𑒡𑒢𑒱 ।
𑒂𑒖𑒡𑒰𑒢 𑒦𑒳𑒖𑒹 𑒮𑒫𑓂𑒨𑒹 𑒠𑒹𑒫𑒲𑒧𑒣𑓂𑒨𑒞𑒱- 𑒫𑒹𑒑𑒫𑒰𑒢𑓂 ॥ 𑓗॥
सिंहमाहत्य खड्गेन तीक्ष्णधारेण मूर्द्धनि ।
आजधान भुजे सव्ये देवीमप्यति- वेगवान् ॥ ७॥

𑒞𑒮𑓂𑒨𑒰𑓁 𑒐𑒛𑓂𑒑𑒼 𑒦𑒳𑒖𑒧𑓂𑒣𑓂𑒩𑒰𑒣𑓂𑒨 𑒣𑒤𑒰𑒪 𑒢𑒵𑒣𑒢𑒢𑓂𑒠𑒢 |
𑒞𑒞𑒼 𑒖𑒑𑓂𑒩𑒰𑒯 𑒬𑒴𑒪𑓀 𑒮 𑒏𑒼𑒣𑒰𑒠𑒩𑒳𑒝𑒪𑒼𑒔𑒢𑓁 ॥𑓘॥
तस्याः खड्गो भुजम्प्राप्य पफाल नृपनन्दन |
ततो जग्राह शूलं स कोपादरुणलोचनः ॥८॥

𑒔𑒱𑒏𑓂𑒭𑒹𑒣 𑒔 𑒞𑒞𑒮𑓂𑒞𑒞𑓂𑒞𑒳 𑒦𑒠𑓂𑒩𑒏𑒰𑒪𑓂𑒨𑒰𑓀 𑒧𑒯𑒰𑒮𑒳𑒩𑓁 ।
𑒖𑒰𑒖𑓂𑒫𑒪𑓂𑒨𑒧𑒰𑒢𑒢𑓂𑒞𑒹𑒖𑒼𑒦𑒲-𑒩𑒫𑒱𑒥𑒱𑒧𑓂𑒫𑒧𑒱𑒫𑒰𑒧𑓂𑒥𑒩𑒰𑒞𑓂 ॥𑓙॥
चिक्षेप च ततस्तत्तु भद्रकाल्यां महासुरः ।
जाज्वल्यमानन्तेजोभी-रविबिम्वमिवाम्बरात् ॥९॥

𑒠𑒵𑒭𑓂𑒙𑓂𑒫𑒰 𑒞𑒠𑒰𑒣𑒞𑒔𑓂𑒕𑒴𑒪𑓀 𑒠𑒹𑒫𑒲 𑒬𑒴𑒪𑒧𑒧𑒳𑒘𑓂𑒔𑒞 |
𑒞𑒔𑓂𑒕𑒴𑒪𑓀 𑒬𑒞𑒡𑒰 𑒞𑒹𑒢 𑒢𑒲𑒞𑓀 𑒮 𑒔 𑒧𑒯𑒰𑒮𑒳𑒩𑓁 ॥𑓑𑓐॥
दृष्ट्वा तदापतच्छूलं देवी शूलममुञ्चत |
तच्छूलं शतधा तेन नीतं स च महासुरः ॥१०॥

𑒯𑒞𑒹 𑒞𑒮𑓂𑒧𑒱𑒢𑓂𑒧𑒯𑒰𑒫𑒲𑒩𑓂𑒨𑓂𑒨𑒹 𑒧𑒯𑒱𑒭𑒮𑓂𑒨 𑒔𑒧𑒴𑒣𑒞𑒾 ।
𑒂𑒖𑒑𑒰𑒧 𑒑𑒖𑒰𑒩𑒴𑒜𑓃𑒬𑓂𑒔𑒰𑒧𑒩𑒮𑓂𑒞𑓂𑒩𑒱𑒠𑒬𑒰𑒩𑓂𑒠𑓂𑒠𑒢𑓁 ॥ 𑓑𑓑॥
हते तस्मिन्महावीर्य्ये महिषस्य चमूपतौ ।
आजगाम गजारूढ़श्चामरस्त्रिदशार्द्दनः ॥ ११॥

𑒮𑒼𑓄𑒣𑒱 𑒬𑒏𑓂𑒞𑒱𑒧𑓂𑒧𑒳𑒧𑒼𑒔𑒰𑓄𑒟 𑒠𑒹𑒫𑓂𑒨𑒰𑒮𑓂𑒞𑒰𑒧𑒧𑓂𑒥𑒱𑒏𑒰 𑒠𑓂𑒩𑒳𑒞𑒧𑓂 ।
𑒯𑒳𑒓𑓂𑒏𑒰𑒩𑒰𑒦𑒱𑒯𑒞𑒰𑓀 𑒦𑒴𑒧𑒾 𑒣𑒰𑒞𑒨𑒰𑒧𑒰𑒮 𑒢𑒱𑒭𑓂𑒣𑓂𑒩𑒦𑒰𑒧𑓂 ॥ 𑓑𑓒 ॥
सोऽपि शक्तिम्मुमोचाऽथ देव्यास्तामम्बिका द्रुतम् ।
हुङ्काराभिहतां भूमौ पातयामास निष्प्रभाम् ॥ १२ ॥

𑒦𑒑𑓂𑒢𑒰𑓀 𑒬𑒏𑓂𑒞𑒱𑓀 𑒢𑒱𑒣𑒞𑒱𑒞𑒰𑓀 𑒠𑒵𑒭𑓂𑒙𑓂𑒫𑒰 𑒏𑓂𑒩𑒼𑒡𑒮𑒧𑒢𑓂𑒫𑒱𑒞𑓁 ।
𑒔𑒱𑒏𑓂𑒭𑒹𑒣 𑒔𑒰𑒧𑒩𑓁 𑒬𑒴𑒪𑓀 𑒫𑒰𑒝𑒻𑒮𑓂𑒞𑒠𑒣𑒱 𑒮𑒰𑓄𑒔𑓂𑒕𑒱𑒢𑒞𑓂 ||𑓑𑓓||
भग्नां शक्तिं निपतितां दृष्ट्वा क्रोधसमन्वितः ।
चिक्षेप चामरः शूलं वाणैस्तदपि साऽच्छिनत् ||१३||

𑒞𑒞𑓁 𑒮𑒱𑓀𑒯𑓁 𑒮𑒧𑒳𑒞𑓂𑒣𑒞𑓂𑒨 𑒑𑒖𑒏𑒳𑒧𑓂𑒦𑒰𑒢𑓂𑒞𑒩𑒮𑓂𑒟𑒱𑒞𑓁 ।
𑒥𑒰𑒯𑒳𑒨𑒳𑒠𑓂𑒡𑒹𑒢 𑒨𑒳𑒨𑒳𑒡𑒹 𑒞𑒹𑒢𑒼𑒔𑓂𑒔𑒻𑒮𑓂𑒞𑓂𑒩𑒱𑒠𑒬𑒰𑒩𑒱𑒝𑒰 ॥𑓑𑓔॥
ततः सिंहः समुत्पत्य गजकुम्भान्तरस्थितः ।
बाहुयुद्धेन युयुधे तेनोच्चैस्त्रिदशारिणा ॥१४॥

𑒨𑒳𑒡𑓂𑒡𑒧𑒰𑒢𑒾 𑒞𑒞𑒮𑓂𑒞𑒾 𑒞𑒳 𑒞𑒧𑓂𑒧𑒰𑒢𑓂𑒢𑒰𑒑𑒰𑒢𑓂𑒧𑒯𑒲𑒓𑓂𑒑𑒞𑒾 ।
𑒨𑒳𑒨𑒳𑒡𑒰𑒞𑒹𑓄𑒞𑒱-𑒮𑓀𑒩𑒥𑓂𑒡𑒾 𑒣𑓂𑒩𑒯𑒰𑒩𑒻𑒩𑒞𑒱 – 𑒠𑒰𑒩𑒳𑒝𑒻𑓁 ॥𑓑𑓕॥
युध्धमानौ ततस्तौ तु तम्मान्नागान्महीङ्गतौ ।
युयुधातेऽति-संरब्धौ प्रहारैरति – दारुणैः ॥१५॥

𑒞𑒞𑒼 𑒫𑒹𑒑𑒰𑒞𑓂𑒐𑒧𑒳𑒞𑓂𑒣𑒞𑓂𑒨 𑒢𑒱𑒣𑒞𑓂𑒨 𑒔 𑒧𑒵𑒑𑒰𑒩𑒱𑒝𑒰 ।
𑒏𑒩𑒣𑓂𑒩𑒯𑒰𑒩𑒹𑒝 𑒬𑒱𑒩𑒬𑓂𑒔𑒰𑒧𑒩𑒮𑓂𑒨 𑒣𑒵𑒟𑒏𑓂𑒏𑒵𑒞𑒧𑓂 ॥ 𑓑𑓖॥
ततो वेगात्खमुत्पत्य निपत्य च मृगारिणा ।
करप्रहारेण शिरश्चामरस्य पृथक्कृतम् ॥ १६॥

𑒅𑒠𑒑𑓂𑒩𑒬𑓂𑒔 𑒩𑒝𑒹 𑒠𑒹𑒫𑓂𑒨𑒰 𑒬𑒱𑒪𑒰𑒫𑒵𑒏𑓂𑒭𑒰𑒠𑒱𑒦𑒱𑒩𑓂𑒯𑒞𑓁 ।
𑒠𑒢𑓂𑒞𑒧𑒳𑒭𑓂𑒙𑒱𑒞𑒪𑒻𑒬𑓂𑒔𑒻𑒫 𑒏𑒩𑒰𑒪𑒬𑓂𑒔 𑒢𑒱𑒣𑒰𑒞𑒱𑒞𑓁 ॥𑓑𑓗॥
उदग्रश्च रणे देव्या शिलावृक्षादिभिर्हतः ।
दन्तमुष्टितलैश्चैव करालश्च निपातितः ॥१७॥

𑒠𑒹𑒫𑒲 𑒏𑓂𑒩𑒳𑒠𑓂𑒡𑒰 𑒑𑒠𑒰𑒣𑒰𑒞𑒻𑒬𑓂𑒔𑒴𑒩𑓂𑒝𑓂𑒝𑒨𑒰𑒧𑒰𑒮 𑒔𑒼𑒠𑓂𑒡𑒞𑒧𑓂 ।
𑒫𑒰𑒭𑓂𑒏𑒪𑓀 𑒦𑒱𑒢𑓂𑒠𑒱𑒣𑒰𑒪𑒹𑒢 𑒫𑒰𑒝𑒻𑒮𑓂𑒞𑒰𑒢𑓂𑒞𑒟𑒰𑓄𑒢𑓂𑒡𑒏𑒧𑓂 ॥𑓑𑓘॥
देवी क्रुद्धा गदापातैश्चूर्ण्णयामास चोद्धतम् ।
वाष्कलं भिन्दिपालेन वाणैस्तान्तथाऽन्धकम् ॥१८॥

𑒅𑒑𑓂𑒩𑒰𑒮𑓂𑒨𑒧𑒳𑒑𑓂𑒩𑒫𑒲𑒩𑓂𑒨𑓀 𑒔 𑒞𑒟𑒻𑒫 𑒔 𑒧𑒯𑒰𑒢𑒳𑒧𑓂 ।
𑒞𑓂𑒩𑒱𑒢𑒹𑒞𑓂𑒩𑒰 𑒔 𑒞𑓂𑒩𑒱𑒬𑒴𑒪𑒹𑒢 𑒖𑒒𑒰𑒢 𑒣𑒩𑒧𑒹𑒬𑓂𑒫𑒩𑒲 ॥𑓑𑓙॥
उग्रास्यमुग्रवीर्यं च तथैव च महानुम् ।
त्रिनेत्रा च त्रिशूलेन जघान परमेश्वरी ॥१९॥

𑒫𑒱𑒛𑓃𑒰𑒪𑒮𑓂𑒨𑒰𑒮𑒱𑒢𑒰 𑒏𑒰𑒨𑒰𑒞𑓂𑒣𑒰𑒞𑒨𑒰𑒧𑒰𑒮 𑒫𑒻 𑒬𑒱𑒩𑓁 ।
𑒠𑒳𑒩𑓂𑒠𑓂𑒡𑒩𑓀 𑒠𑒳𑒩𑓂𑒧𑓂𑒧𑒳𑒐𑓀 𑒔𑒼𑒦𑒾 𑒬𑒩𑒻𑒩𑓂𑒢𑓂𑒢𑒱𑒢𑓂𑒨𑒹 𑒨𑒧𑒏𑓂𑒭𑒨𑒧𑓂 ॥𑓒𑓐॥
विड़ालस्यासिना कायात्पातयामास वै शिरः ।
दुर्द्धरं दुर्म्मुखं चोभौ शरैर्न्निन्ये यमक्षयम् ॥२०॥

𑒋𑒫𑓀 𑒮𑓀𑒏𑓂𑒭𑒲𑒨𑒧𑒰𑒝𑒹 𑒞𑒳 𑒮𑓂𑒫𑒮𑒻𑒢𑓂𑒨𑒹 𑒧𑒯𑒱𑒭𑒰𑒮𑒳𑒩𑓁 ।
𑒧𑒰𑒯𑒱𑒭𑒹𑒝 𑒮𑓂𑒫𑒩𑒴𑒣𑒹𑒝 𑒞𑓂𑒩𑒰𑒮𑒨𑒰𑒧𑒰𑒮 𑒞𑒰𑒢𑓂𑒑𑒝𑒰𑒢𑓂 ॥ 𑓒𑓑 ॥
एवं संक्षीयमाणे तु स्वसैन्ये महिषासुरः ।
माहिषेण स्वरूपेण त्रासयामास तान्गणान् ॥ २१ ॥

𑒏𑒰𑒿𑒬𑓂𑒔𑒱𑒞𑓂𑒞𑒳𑒝𑓂𑒛𑒣𑓂𑒩𑒯𑒰𑒩𑒹𑒝 𑒐𑒳𑒩𑒏𑓂𑒭𑒹𑒣𑒻𑒮𑓂𑒞𑒟𑒰𑓄𑒣𑒩𑒰𑒢𑓂 ।
𑒪𑒰𑒓𑓂𑒑𑒴 𑒪𑒞𑒰𑒛𑓃𑒱𑒞𑒰𑒿𑒬𑓂𑒔𑒰𑒢𑓂𑒨𑒰𑒘𑓂𑒕𑒓𑓂𑒑𑒰𑒦𑓂𑒨𑒰𑓀 𑒔 𑒫𑒱𑒠𑒰𑒩𑒱𑒞𑒰𑒢𑓂 ||𑓒𑓒||
काँश्चित्तुण्डप्रहारेण खुरक्षेपैस्तथाऽपरान् ।
लाङ्गू लताड़िताँश्चान्याञ्छङ्गाभ्यां च विदारितान् ||२२||

𑒫𑒹𑒑𑒹𑒢 𑒏𑒰𑒿𑒬𑓂𑒔𑒱𑒠𑒣𑒩𑒰𑒢𑓂𑒢𑒰𑒠𑒹𑒢 𑒦𑓂𑒩𑒧𑒝𑒹𑒢 𑒔 ।
𑒢𑒱𑓁 𑒬𑓂𑒫𑒰𑒮𑒣𑒫𑒢𑒹𑒢𑒰𑒢𑓂𑒨𑒰𑒢𑓂𑒨𑒰𑒞𑒨𑒰𑒧𑒰𑒮 𑒦𑒴𑒞𑒪𑒹 ||𑓒𑓓||
वेगेन काँश्चिदपरान्नादेन भ्रमणेन च ।
निः श्वासपवनेनान्यान्यातयामास भूतले ||२३||

𑒢𑒱𑒣𑒰𑒞𑓂𑒨 𑒣𑓂𑒩𑒧𑒟𑒰𑒢𑒲𑒏𑒧𑒦𑓂𑒨𑒒𑒰𑒫𑒞 𑒮𑒼𑓄𑒮𑒳𑒩𑓁 ।
𑒮𑒱𑓀𑒯𑓀 𑒯𑒢𑓂𑒞𑒳𑒧𑓂𑒧𑒯𑒰𑒠𑒹𑒫𑓂𑒨𑒰𑓁 𑒏𑒼𑒣𑓀 𑒔𑒏𑓂𑒩𑒹 𑒞𑒞𑒼𑓄𑒧𑓂𑒥𑒱𑒏𑒰 || 𑓒𑓔||
निपात्य प्रमथानीकमभ्यघावत सोऽसुरः ।
सिंहं हन्तुम्महादेव्याः कोपं चक्रे ततोऽम्बिका || २४||

𑒮𑒼𑓄𑒣𑒱 𑒏𑒼𑒣𑒰𑒢𑓂𑒧𑒯𑒰𑒫𑒲𑒩𑓂𑒨𑓂𑒨𑓁 𑒐𑒳𑒩𑒏𑓂𑒭𑒳𑒝𑓂𑒝𑒧𑒯𑒲𑒞𑒪𑓁 ।
𑒬𑒵𑒓𑓂𑒑𑒰𑒦𑓂𑒨𑒰𑓀 𑒣𑒩𑓂𑒫𑒞𑒰𑒢𑒳𑒔𑓂𑒔𑒰𑒿𑒬𑓂𑒔𑒱𑒏𑓂𑒭𑒹𑒣 𑒔 𑒢𑒢𑒰𑒠 𑒔 || 𑓒𑓕 ||
सोऽपि कोपान्महावीर्य्यः खुरक्षुण्णमहीतलः ।
शृङ्गाभ्यां पर्वतानुच्चाँश्चिक्षेप च ननाद च || २५ ||

𑒫𑒹𑒑𑒦𑓂𑒩𑒧𑒝𑒫𑒱𑒏𑓂𑒭𑒳𑒩𑒰𑒝𑒰 𑒧𑒯𑒲 𑒞𑒮𑓂𑒨 𑒫𑓂𑒨𑒬𑒲𑒩𑓂𑒨𑓂𑒨𑒞 ।
𑒪𑒰𑒓𑓂𑒑𑒴𑒪𑒹𑒢𑒰𑒯𑒞𑒬𑓂𑒔𑒰𑒥𑓂𑒡𑒱𑓁 𑒣𑓂𑒪𑒰𑒫𑒨𑒰𑒧𑒰𑒮 𑒮𑒩𑓂𑒫𑓂𑒫𑒞𑓁 || 𑓒𑓖 ||
वेगभ्रमणविक्षुराणा मही तस्य व्यशीर्य्यत ।
लाङ्गूलेनाहतश्चाब्धिः प्लावयामास सर्व्वतः || २६ ||

𑒡𑒳𑒞𑒬𑒵𑒓𑓂𑒑𑒫𑒱𑒦𑒱𑒢𑓂𑒢𑒰𑒬𑓂𑒔 𑒐𑒝𑓂𑒛𑒐𑒝𑓂𑒛𑒨𑓂𑒨𑒿𑒨𑒳𑒩𑓂𑒒𑒢𑒰𑓁 ।
𑒬𑓂𑒫𑒰𑒮𑒰𑒢𑒱𑒪𑒰𑒮𑓂𑒞𑒰𑓁 𑒬𑒞𑒬𑒼 𑒢𑒱𑒣𑒹𑒞𑒳𑒩𑓂𑒢𑓂𑒢𑒦𑒮𑒼𑓄𑒔𑒪𑒰𑓁 ||𑓒𑓗||
धुतशृङ्गविभिन्नाश्च खण्डखण्डय्यँयुर्घनाः ।
श्वासानिलास्ताः शतशो निपेतुर्न्नभसोऽचलाः ||२७||

𑒃𑒞𑒱 𑒏𑓂𑒩𑒼𑒡𑒮𑒧𑒰𑒡𑓂𑒧𑒰𑒞𑒧𑒰𑒣𑒞𑒢𑓂𑒞𑓀 𑒧𑒯𑒰𑒮𑒳𑒩𑒧𑓂 ।
𑒠𑒵𑒭𑓂𑒙𑓂𑒫𑒰 𑒮𑒰 𑒔𑒝𑓂𑒛𑒱𑒏𑒰 𑒏𑒼𑒣𑓀 𑒞𑒥𑓂𑒠𑒡𑒰𑒨 𑒞𑒠𑒰𑓄𑒏𑒩𑒼𑒞𑓂 ॥ 𑓒𑓘 ॥
इति क्रोधसमाध्मातमापतन्तं महासुरम् ।
दृष्ट्वा सा चण्डिका कोपं तब्दधाय तदाऽकरोत् ॥ २८ ॥

𑒮𑒰 𑒏𑓂𑒭𑒱𑒣𑓂𑒞𑓂𑒫𑒰 𑒞 𑒨 𑒫𑒻 𑒣𑒰𑒬𑓀 𑒞𑒧𑓂𑒥𑒥𑒢𑓂𑒡 𑒧𑒯𑒰𑒮𑒳𑒩𑒧𑓂 ।
𑒞𑒞𑓂𑒨𑒰𑒖 𑒧𑒰𑒯𑒱𑒭𑓀 𑒩𑒴𑒣𑓀 𑒮𑒼𑓄𑒣𑒱 𑒥𑒠𑓂𑒡𑒼 𑒧𑒯𑒰𑒧𑒵𑒡𑒹 ॥𑓒𑓙॥
सा क्षिप्त्वा त य वै पाशं तम्बबन्ध महासुरम् ।
तत्याज माहिषं रूपं सोऽपि बद्धो महामृधे ॥२९॥

𑒞𑒞𑓁 𑒮𑒱𑒯𑒼𑓄𑒦𑒫𑒞𑓂𑒮𑒠𑓂𑒨𑒼 𑒨𑒰𑒫𑒞𑓂𑒞𑒮𑓂𑒨𑒰𑒧𑓂𑒥𑒱𑒏𑒰 𑒬𑒱𑒩𑓁 ।
𑒕𑒱𑒢𑒞𑓂𑒞𑒱 𑒞𑒰𑒫𑒞𑓂𑒣𑒳𑒩𑒳𑒭𑓁 𑒐𑒛𑓂𑒑𑒣𑒰𑒝𑒱𑒩𑒠𑒵𑒬𑓂𑒨𑒞 ||𑓓𑓐||
ततः सिहोऽभवत्सद्यो यावत्तस्याम्बिका शिरः ।
छिनत्ति तावत्पुरुषः खड्गपाणिरदृश्यत ||३०||

𑒞𑒞 𑒋𑒫𑒰𑒬𑒳 𑒣𑒳𑒩𑒳𑒭𑓀 𑒠𑒹𑒫𑒲 𑒔𑒱𑒔𑓂𑒕𑒹𑒠 𑒮𑒰𑒨𑒏𑒻𑓁 ।
𑒞𑒓𑓂𑒐𑒛𑓂𑒑𑒔𑒩𑓂𑒧𑓂𑒧𑒝𑒰 𑒮𑒰𑒩𑓂𑒠𑓂𑒡𑓀 𑒞𑒞𑓁 𑒮𑒼𑓄𑒦𑒴𑒢𑓂𑒧𑒯𑒰𑒑𑒖𑓁 ॥𑓓𑓑॥
तत एवाशु पुरुषं देवी चिच्छेद सायकैः ।
तङ्खड्गचर्म्मणा सार्द्धं ततः सोऽभून्महागजः ॥३१॥

𑒏𑒩𑒹𑒝 𑒔 𑒧𑒯𑒰𑒮𑒱𑓀𑒯𑓀 𑒞𑓀 𑒔𑒏𑒩𑓂𑒭 𑒖𑒑𑒩𑓂𑒘𑓂𑒖 𑒔 ।
𑒏𑒩𑓂𑒧𑒞𑒮𑓂𑒞𑒳 𑒏𑒩𑒢𑓂𑒠𑒹𑒫𑒲 𑒐𑒛𑓂𑒑𑒹𑒢 𑒢𑒱𑒩𑒏𑒵𑒢𑓂𑒞𑒞 ॥𑓓𑓒॥
करेण च महासिंहं तं चकर्ष जगर्ञ्ज च ।
कर्मतस्तु करन्देवी खड्गेन निरकृन्तत ॥३२॥

𑒞𑒞𑒼 𑒧𑒯𑒰𑓄𑒮𑒳𑒩𑒼 𑒦𑒴𑒨𑒼 𑒧𑒰𑒯𑒱𑒭𑓀 𑒫𑒣𑒳𑒩𑒰𑒮𑓂𑒟𑒱𑒞𑓁 ।
𑒞𑒟𑒻𑒫 𑒏𑓂𑒭𑒼𑒦𑒨𑒰𑒧𑒰𑒮 𑒞𑓂𑒩𑒻𑒪𑒼𑒏𑓂𑒨𑓀 𑒮𑒔𑒩𑒰𑒔𑒩𑒧𑓂 ॥𑓓𑓓॥
ततो महाऽसुरो भूयो माहिषं वपुरास्थितः ।
तथैव क्षोभयामास त्रैलोक्यं सचराचरम् ॥३३॥

𑒞𑒞𑓁 𑒏𑓂𑒩𑒳𑒠𑓂𑒡𑒰 𑒖𑒑𑒢𑓂𑒧𑒰𑒞𑒰 𑒔𑒝𑓂𑒛𑒱𑒏𑒰 𑒣𑒰𑒢𑒧𑒳𑒞𑓂𑒞𑒧𑒧𑓂 ।
𑒣𑒣𑒾 𑒣𑒳𑒢𑓁 𑒣𑒳𑒢𑒬𑓂𑒔𑒻𑒫 𑒖𑒯𑒰𑒮𑒰𑒩𑒳𑒝𑒪𑒼𑒔𑒢𑒰 ||𑓓𑓔||
ततः क्रुद्धा जगन्माता चण्डिका पानमुत्तमम् ।
पपौ पुनः पुनश्चैव जहासारुणलोचना ||३४||

𑒢𑒢𑒩𑓂𑒠𑓂𑒠 𑒔𑒰𑒮𑒳𑒩: 𑒮𑒼𑒣𑒱 𑒥𑒪𑒫𑒲𑒩𑓂𑒨𑓂𑒨𑒧𑒠𑒼𑒠𑓂𑒡𑒞𑓁 ।
𑒫𑒱𑒭𑒰𑒝𑒰𑒦𑓂𑒨𑒰𑓀 𑒔 𑒔𑒱𑒏𑓂𑒭𑒹𑒣 𑒔𑒝𑓂𑒛𑒱𑒏𑒰𑒧𑓂𑒣𑓂𑒩𑒞𑒱 𑒦𑒴𑒡𑒩𑒰𑒢𑓂 ॥𑓓𑓕॥
ननर्द्द चासुर: सोपि बलवीर्य्यमदोद्धतः ।
विषाणाभ्यां च चिक्षेप चण्डिकाम्प्रति भूधरान् ॥३५॥

𑒮𑒰 𑒔 𑒞𑒰𑒢𑓂𑒣𑓂𑒩𑒯𑒱𑒞𑒰𑒿𑒮𑓂𑒞𑒹𑒢 𑒔𑒴𑒩𑓂𑒝𑓂𑒝𑒨𑒢𑓂𑒞𑒲 𑒬𑒩𑒼𑒞𑓂𑒏𑒩𑒻𑓁 ।
𑒅𑒫𑒰𑒔 𑒞𑒧𑓂𑒧𑒠𑒼𑒠𑓂𑒡𑒴𑒞- 𑒧𑒳𑒐𑒩𑒰𑒑 𑒏𑒳𑒪𑒰𑒏𑓂𑒭𑒩𑒧𑓂 ॥𑓓𑓖॥
सा च तान्प्रहिताँस्तेन चूर्ण्णयन्ती शरोत्करैः ।
उवाच तम्मदोद्धूत- मुखराग कुलाक्षरम् ॥३६॥

𑒠𑒹𑒫𑓂𑒨𑒳𑒫𑒰𑒔 ! ॥𑓓𑓗||
देव्युवाच ! ॥३७||

𑒑𑒩𑓂𑒖𑓂𑒖 𑒑𑒩𑓂𑒖𑓂𑒖 𑒏𑓂𑒭𑒝𑓀 𑒧𑒴𑒜𑓃 𑒧𑒡𑒳 𑒨𑒰𑒫𑒞𑓂𑒣𑒱𑒥𑒰𑒧𑓂𑒨𑒯𑒧𑓂 ।
𑒧𑒨𑒰 𑒞𑓂𑒫𑒨𑒱 𑒯𑒞𑒹𑓄𑒞𑓂𑒩𑒻𑒫 𑒑𑒩𑓂𑒖𑒱𑒭𑓂𑒨𑒢𑓂𑒞𑓂𑒨𑒰𑒬𑒳 𑒠𑒹𑒫𑒞𑒰𑓁 ॥𑓓𑓘॥
गर्ज्ज गर्ज्ज क्षणं मूढ़ मधु यावत्पिबाम्यहम् ।
मया त्वयि हतेऽत्रैव गर्जिष्यन्त्याशु देवताः ॥३८॥

𑒇𑒭𑒱𑒩𑒳𑒫𑒰𑒔 ॥ 𑓓𑓙॥
ऋषिरुवाच ॥ ३९॥

𑒋𑒫𑒧𑒳𑒏𑓂𑒞𑓂𑒫𑒰 𑒮𑒧𑒳𑒞𑓂𑒣𑒞𑓂𑒨 𑒮𑒰𑒩𑒴𑒜𑓃𑒰 𑒞𑓀 𑒧𑒯𑒰𑒮𑒳𑒩𑒧𑓂 ।
𑒣𑒰𑒠𑒹𑒢𑒰𑓄𑓄𑒏𑓂𑒩𑒧𑓂𑒨 𑒏𑒝𑓂𑒚𑒹 𑒔 𑒬𑒴𑒪𑒹𑒢𑒻𑒢𑒧𑒞𑒰𑒛𑓃𑒨𑒞𑓂 ॥ 𑓔𑓐 ॥
एवमुक्त्वा समुत्पत्य सारूढ़ा तं महासुरम् ।
पादेनाऽऽक्रम्य कण्ठे च शूलेनैनमताड़यत् ॥ ४० ॥

𑒞𑒞𑓁 𑒮𑒼𑒣𑒱 𑒣𑒠𑒰𑒏𑓂𑒩𑒰𑒢𑓂𑒞𑒮𑓂𑒞𑒨𑒰 𑒢𑒱𑒖𑒧𑒳𑒐𑒰𑒞𑓂𑒞𑒞𑓁 ।
𑒁𑒩𑓂𑒠𑓂𑒡𑒢𑒱𑒭𑓂𑒏𑓂𑒩𑒰𑒢𑓂𑒞 𑒋𑒫𑒰𑒞𑒱-𑒠𑒹𑒫𑓂𑒨𑒰 𑒫𑒲𑒩𑓂𑒨𑓂𑒨𑒝 𑒮𑒫𑓂𑒫𑒵𑒿𑒞𑓁 ॥ 𑓔𑓑 ॥
ततः सोपि पदाक्रान्तस्तया निजमुखात्ततः ।
अर्द्धनिष्क्रान्त एवाति-देव्या वीर्य्यण सव्वृँतः ॥ ४१ ॥

𑒁𑒩𑓂𑒠𑓂𑒡𑒢𑒱𑒭𑓂𑒏𑓂𑒩𑒰𑒢𑓂𑒞 𑒋𑒫𑒰𑒮𑒾 𑒨𑒳𑒡𑓂𑒡𑓂𑒨𑒧𑒰𑒢𑒼 𑒧𑒯𑒰𑒮𑒳𑒩𑓁 ।
𑒞𑒨𑒰 𑒧𑒯𑒰𑒮𑒱𑒢𑒰 𑒠𑒹𑒫𑓂𑒨𑒰 𑒬𑒱𑒩𑒬𑓂𑒕𑒱𑒞𑓂𑒫𑒰 𑒢𑒱𑒣𑒰𑒞𑒱𑒞𑓁 ॥ 𑓔𑓒 ॥
अर्द्धनिष्क्रान्त एवासौ युध्ध्यमानो महासुरः ।
तया महासिना देव्या शिरश्छित्वा निपातितः ॥ ४२ ॥

𑒞𑒞𑒼 𑒯𑒰 𑒯𑒰 𑒏𑒵𑒞𑓀 𑒮𑒩𑓂𑒫𑓂𑒫 𑒠𑒻𑒞𑓂𑒨𑒮𑒻𑒢𑓂𑒨𑓀 𑒢𑒢𑒰𑒬 𑒞𑒞𑓂 ।
𑒣𑓂𑒩𑒯𑒩𑓂𑒭 𑒔 𑒣𑒩𑒘𑓂𑒖𑒑𑓂𑒧𑒳𑓁 𑒮𑒏𑒪𑒰 𑒠𑒹𑒫𑒞𑒰 𑒑𑒝𑒰𑓁 ||𑓔𑓓||
ततो हा हा कृतं सर्व्व दैत्यसैन्यं ननाश तत् ।
प्रहर्ष च परञ्जग्मुः सकला देवता गणाः ||४३||

𑒞𑒳𑒭𑓂𑒙𑒳𑒫𑒳𑒮𑓂𑒞𑒰𑓀 𑒮𑒳𑒩𑒰 𑒠𑒹𑒫𑒲𑓀 𑒮𑒯 𑒠𑒱𑒫𑓂𑒨𑒻𑒩𑓂𑒧𑓂𑒧𑒯𑒩𑓂𑒭𑒱𑒦𑒱𑓁 ।
𑒖𑒑𑒳𑒩𑓂𑒑𑒢𑓂𑒡𑒩𑓂𑒫𑓂𑒫𑒣𑒞𑒨𑒼 𑒢𑒢𑒵𑒞𑒳𑒬𑓂𑒫𑒰𑒣𑓂𑒮𑒩𑒼𑒑𑒝𑒰𑓁 ॥𑓔𑓔॥
तुष्टुवुस्तां सुरा देवीं सह दिव्यैर्म्महर्षिभिः ।
जगुर्गन्धर्व्वपतयो ननृतुश्वाप्सरोगणाः ॥४४॥

𑒃𑒞𑒱 𑒬𑓂𑒩𑒲 𑒧𑒰𑒩𑓂𑒏𑓂𑒏𑒝𑓂𑒛𑒹𑒨 𑒣𑒳𑒩𑒰𑒝𑒹 𑒮𑒰𑒫𑒩𑓂𑒝𑓂𑒝𑒱𑒏𑒹 𑒧𑒢𑓂𑒫𑒢𑓂𑒞𑒩𑒹 𑒠𑒹𑒫𑒲𑒧𑒰𑒯𑒰𑒞𑓂𑒧𑓂𑒨𑒹 𑒧𑒯𑒱𑒭𑒰𑒮𑒳𑒩𑒥𑒡𑓁 ॥𑓓॥
इति श्री मार्क्कण्डेय पुराणे सावर्ण्णिके मन्वन्तरे देवीमाहात्म्ये महिषासुरबधः ॥३॥

Leave a Reply